Table of Contents

<<5-1-58 —- 5-1-60>>

5-1-59 पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य परिमाणम् 5-1-47 इति वर्तते। पङ्क्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। पञ्चाना टिलोपः तिश्च प्रत्ययः। पञ्च परिमाणम् अस्य पङ्क्तिश् छन्दः। द्वयोर् दशतोः विन्भावः शतिश्च प्रत्ययः द्वौ दशतौ प्रैमाणम् अस्य सङ्घस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शत् च प्रत्ययः। त्रयो दशतः परिमाणम् अस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शत् च प्रत्ययः। चत्वारो दशतः परिमाऽणस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शत् च प्रत्ययः। पञ्च दशतः परिमाणाम् अस्य पञ्चाशत्। षण्णां दशतां षड्भावः, तिः प्रत्ययो ऽपदत्वं च। षङ् दशतः परिमाणम् अस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च। सप्त दशतः परिमाणम् अस्य सप्ततिः। अष्टानां दशताम् अशीभावः तिः प्रत्ययश्च। अष्टौ दशतः परिमाणम् अस्य अशीतिः। नवानां दशतां नवभावः तिः प्रत्ययश्च। नव दशतः परिमाणम् अस्य नवतिः। दशनां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणम् अस्य सङ्घस्य शतम्। विंशत्यादयो गुणशब्दाः, ते यथा कथंचिद् व्युत्पाद्याः। न अत्र अवयवार्थे ऽभिनिवेष्टव्यम्। तथा हि पङ्क्तिः इति क्रमसम्निवेशे ऽपि वर्तते, ब्राह्मणपङ्क्तिः, पपीलिकापङ्क्तिः इति। न च अत्र अवयवार्थः कश्चिदस्ति। या च एषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसङ्ख्यानुविधानं च, एतदपि सर्वं स्वाभाविकम् एव। सहस्रादयो ऽप्येवं जातियकाः तद्वदेव द्रष्टव्याः। उदाहरणमात्रम् एतदिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1150 एते रूढिशब्दा निपात्यन्ते..

बालमनोरमा

1702 पङ्क्तिविंशति। रूढिशब्दा निपात्यन्त शति। `तदस्य परिमाणमित्यर्थे' इति शेषः। पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात्तिप्रत्ययः , प्रकृतेष्टिलोपः, चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ। पङ्क्तिरिति रूपम्। `पञ्चाक्षरा पञ्चपदा पङ्क्ति'रिति छन्दःशास्त्रे। दशानां वर्गः दशत्। `पञ्चद्दशतौ वर्गे वा' इति वक्ष्यते। द्वौ दशतौ परिमाणमस्य सङ्घस्येति विंशतिः। शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च। अत्र सङ्घग्रहणमनुवर्तते। तथा च गवां विंशतिरिति भवति। सङ्घसङ्घिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति। स्वभावादेकवचनं स्त्रीत्वं च। एवं तिं?रशदादावपि। `विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययो'रिति, `तासु चानवतेः स्त्रियः' इति चाऽमरः। त्रयो दशतः परिमाणमस्य सङ्घस्य त्रिशत्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च। चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत्। शत्प्रत्ययः, प्रकृतेः चत्वारिन्भावश्च। पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत्। शत्प्रत्ययः, प्रकृतेः पञ्चादेशः। षड् दशतः परिमाणमस्य सह्घस्य षष्ठिः। तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाऽभावश्च। सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः। तिप्रत्ययः, प्रकृतेः सप्तादेशः। अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः। तिप्रत्ययः, प्रकृतेरशीत्यादेशः। नव दशतः परिमाणमस्य सङ्घस्य नवतिः। तिप्रत्ययः, प्रकृतेर्नवादेशः। दश दशतः परिमाणमस्य सङ्घस्य शतम्। तप्रत्ययः, प्रकृतेः शादेशश्च। एतत्सर्वं भाष्ये स्पष्टम्। `एतान्यव्युत्पन्नप्रातिपदिकानी'ति तु भाष्यनिष्कर्षः।

तत्त्वबोधिनी

1315 पङ्क्तिवंशति। `तदस्य परिमाण'मिति वर्तते। पञ्चन्?शब्दस्य टिलोपः, तिप्रत्ययः, `चोः कु'रिति कुत्वम्। पञ्च पदानि परिमाणमस्य पङ्क्तिश्छन्द इति

प्रथमावृत्तिः

TBD.

काशिका

। पदशब्दोऽत्र पादपर्याय इति हरदत्तः। रूढिशब्दा इति। तथा चात्र नाऽवयवर्थेऽभिनिवेष्टव्यम्। पङ्क्तिशब्दो हि नानार्थः। अस्ति क्रमसंनिवेशे — ब्राआहृणपङ्क्ति पिपीलिकापङ्क्तिरिति। अस्ति च दशसंख्यायं—, पङ्क्तिरथ इति। दशरथ इत्यर्थः। अस्ति हि छन्दोविशेषे—-`यस्य पञ्चाक्षराः पञाच पादाः'। तथा च छन्दोविशेषे एवायवार्थो नान्यत्रेति बोध्यम्। द्वयोर्दशतोर्विन्भावः, शतिश्च प्रत्ययः , अपदत्वं चेति न पठन्ति। त्रयाणां दशतां त्रिन्भावः। शच्च प्रत्ययः। मतान्तरे तु तिं?रभावः। त्रयो दशतः परिमाणमस्य तिं?रशत्। एवं चतुर्णां चत्वारिन्। पञ्चानां पञ्चा। आभ्यामपि शत्प्रत्ययः। षण्णां दशतां षष्,तिश्च प्रत्ययः, अपदत्वं च। षट् दशतः परिमाणमस्य षष्टिः। ततस्त्रिभ्योऽपि तिप्रत्यय एव। सप्तानां दशतां सप्त, अष्टानां दशतामशी, नवानां दशतां नव, दशानां दशतां शभावः, तश्च प्रत्ययः। दश दशतः परिमाणमस्य शतम्।

Satishji's सूत्र-सूचिः

TBD.