Table of Contents

<<5-1-59 —- 5-1-61>>

5-1-60 पञ्चद्दशतौ वर्गे वा

प्रथमावृत्तिः

TBD.

काशिका

पञ्चत् दशतित्येतौ निपात्येते तदस्य अप्रिमाणम् इत्यस्मिन् विषये वर्गे ऽभिधेये। सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते। वावचनात् पक्षे सो ऽपि भवति। पञ्च परिमाणस्य पञ्चद् वर्गः। दशद्वर्गः। पञ्चको वर्गः। दशको वर्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1703 पञ्चद्दशतौ। पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः। पञ्चद्वर्ग इति। पञ्च परिमाणमस्येत्यर्थे पञ्चन्शब्दाड्डतिप्रत्ययः। तत्र इकार उच्चारणार्थः। `टे'रिति टिलोपः। दशदिति। दश परिमाणमस्य वर्गस्येति विग्रहः। डतिः। डित्त्वाट्टिलोपः। एतदर्थमेव डित्त्वम्। पक्षे इति। डत्यभावपक्षे `संख्यायाः' इति कन्नित्यर्थः।

तत्त्वबोधिनी

1316 पञ्चद्दशतौ। इमौ डत्यन्तावेव निपात्येते वर्गेऽभिधेये। `तदस्य परिमाण'मित्यनुवर्तत एव। दशदिति। दश परिमाणमस्य। पक्षे इति। वाग्रहणात् `संख्याया'इति कन्नपि भवतीति भावः।

Satishji's सूत्र-सूचिः

TBD.