Table of Contents

<<5-1-52 —- 5-1-54>>

5-1-53 आढकाऽचितपात्रात् खो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

आढकाऽचितपात्रशदेभ्यो द्वितीयासमर्थभ्यो ऽन्यतरस्यां संभवादिष्वर्थेषु खः भवति। ठञो ऽपवादः। पक्षे सो ऽपि भवति। आढकं संभवति अवहरति पचति वा आढकीना, आढकिकी। आचितीना, आचितिकी। पात्रीणा, पात्रिकी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1696 आढकाचित। आढक, आचित, पात्र–एभ्यो द्वितीयान्तेभ्य सम्भवत्यवहरतिपचतीत्यर्थेषु खो वा स्यादित्यर्थः। पक्षे ठञिति। `आर्हाता' इत्यत्रः परिमाणपर्युदासान्न ठगिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.