Table of Contents

<<5-1-53 —- 5-1-55>>

5-1-54 द्विगोः ष्ठंश् च

प्रथमावृत्तिः

TBD.

काशिका

आढकाचितपात्रातित्येव। आढकाऽचितपात्रान्ताद् द्विगोः संभवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति, चकारात् खः, अन्यतरस्याम्। विधानसामर्थ्यादेव अनयोर् लुक् न भवति। ठञस् तु पक्षे ऽनुज्ञातस्य अध्यर्धपूर्वद्विगोः इति लुग् भवत्येव। नकारः स्वरार्थः। षकारो ङीषर्थः। द्व्याढकिकी, द्व्याढकीना, द्व्याढकी। द्व्याचितिकी, द्व्याचितीना, द्व्याचिता। अपरिमाणविब्स्ताऽचितेति ङीपः प्रतिषेधः। द्विपात्रिकी, द्विपात्रीणा, द्विपात्री।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1697 द्विगोः ष्ठंश्च। ष्ठन्खाविति। चकारेण खस्यानुकर्षादिति भावः। वा स्त इति। अन्यतरस्यामित्यनुवृत्तेरिति भावः। पक्षे ठञिति। `आर्हात्' इत्यत्र परिमाणपर्युदासान्न ठगिति भावः। षित्त्वान्ङीष्। द्व्याढकिकीति। द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे `तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्ङीष्। द्व्याढकिकीति। द्वे आढके सम्भवत्यवहरति पचति वेत्यर्थे `तद्धितार्थ' इति द्विगुः, ष्ठन्, षित्त्वान्हीषित्यर्थः। अत्र `न य्वाभ्याम्' इत्यैज्न, वृद्धिनिषेधसन्नियोगशिष्टत्वात्, ञ्णित्किदभावेन वृद्धेरप्रसक्तेः। द्व्याकढीनेति। खे रूपम्। द्विगोरिति ङीप्। द्व्याढकीति। ठञि `अध्यर्थे'ति तस्य लुक्। `द्विगोः' इति ङीबित्यर्थः। प्रत्ययलक्षणमाश्रित्य ठञन्तलक्षणङीप्तु नेति `अपरिमाणविस्ते'त्यत्रोक्तम्। `अध्यर्धे'ति लुक्ठञ एव, नतु ष्ठन्खयोरपि, विधिसामथ्र्यात्। द्व्याचितिकी द्व्याचितीनेति। ष्ठनि खे च रूपम्। अथ द्व्याचितशब्दाट्ठञो लुकि द्विगोः' इति ङीपमाशङ्क्याह–अपरिमाणेति ङीब्निषेधादिति। [एवं ष्ठन् ख ठञ्लुग्भिः] द्विपात्रिकीत्यादि।

तत्त्वबोधिनी

1312 द्विगोः ष्ठंश्च। ष्ठनिति छेदः, तदाह—षित्त्वादिति।व्द्याढकिकीति। `न य्वाभ्या'मित्यैजागमो न शङ्क्यः, वृद्धिनिषेधसंनियोगेन तद्विधानाद्वृद्धेश्च प्राप्त्यभावात्। अपरिमाणेति। आचितस्य परिमाणत्वेऽपि तस्मिन् सूत्रे विशिष्यग्रहणादिति भावः।

Satishji's सूत्र-सूचिः

TBD.