TBD.
हविर्विशेषवाचिभ्यो ऽपूपाऽदिभ्यश्च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः। हविश्शब्दात् तु गवादिषु पठान् नित्यम् एव भवति। अपूपादिभ्यः अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्। अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। अन्नविकारेभ्यः। पूप। स्थूणा। पीप। अश्व। पत्र। अपूपादिः।
TBD.
–
1642 विभाषा हविः। हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्राक्क्रीतीयेष्वर्थेषु यद्वा स्यादित्यर्थः। पक्षे छः। आमिक्ष्यं दधीति। आमिक्षायै हितमित्यर्थः। तप्ते पयसि दध्नि निक्षिप्ते सति यद्ध्नीभूतं निष्पद्यते सा आमिक्षेत्युच्यते।
1267 विभाषा हविरपूपादिभ्यः। गवादिषु हविःशब्दस्य पाठादिह हविविशेषणां ग्रहणम्। न च गवादिष्वेव हविर्विशेषणां ग्रहणं किं न स्यादिति वाच्यम्, असंजातविरो?धित्वेन तत्र स्वरूपग्रहणस्य न्याय्यत्वात्। अपूप्यमिति। अपूपेभ्यो हितं चूर्णमित्यर्थः। अपूप, तण्डुल, पृथक्, मुसल, कर्णवेष्टकेत्याद्यपूपादिगणे अन्नविकारेभ्येश्चेति पठ\उfffद्ते। अन्नविकाराः=अन्नप्रकारा अदनीयविशेषास्तेभ्यो यद्वा स्यादिति तदर्थः। आदन्या ओदनीयास्तण्डुलाः। एवं चानेनैव गणसूत्रेण सिद्धे अपूपादीनां केषाचिद्गणे पाठः प्रपञ्चार्थः।
TBD.