Table of Contents

<<5-1-45 —- 5-1-47>>

5-1-46 पात्रात् ष्ठन्

प्रथमावृत्तिः

TBD.

काशिका

पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वापः 5-1-45 इत्येतस्मिन् विषये। ठञो ऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1689 पात्रात् ष्ठन्। तस्य वाप इत्येव। पात्रिकमिति। पात्रस्य वाप इत्यर्थः। षित्त्वं ङीषर्थमित्याह–पात्रिकीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.