TBD.
तस्य इति षष्ठीसमर्थाद् वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यते ऽस्मिन् वापः क्षेत्रम् उच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम्।
TBD.
–
1688 तस्य वापः। अस्मिन्नर्थे षष्ठ\उfffद्न्ताद्यथाविहितं टञादयः स्युरित्यर्थः। प्रास्थिकमिति। प्रस्थपरिमितबीजवापयोग्यं क्षेत्रमित्यर्थः। `आर्हा'दिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीष्ठञ्। द्रौणिकमिति। निष्कादित्वाट्ठक्। खारीकमिति। खार्या ईकन्। द्रोणस्य खार्याश्च वाप इत्यर्थः।
1305 तस्य वापः। `तस्ये'ति वापापेक्षया क्रमणी षष्ठीत्याह—-प्रस्थस्येति। कर्तरि षष्ठ\उfffदां तु `देवदत्तस्य वापः क्षेत्र'मित्यादौ स्यादिति भावः। खारीकमिति।
TBD.