Table of Contents

<<5-1-42 —- 5-1-44>>

5-1-43 तत्र विदित इति च

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः विदितः इत्येतस्मिन्नर्थे। विदितो ज्ञातः प्रकाशितः इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1686 तत्र विदित इति च। सूत्रद्वयमिदम्। सर्वभूमिपृथिवीभ्यामित्यनुवर्तते। `तस्य निमित्तं संयोगात्पाता'विति तु निवृत्तम्, पुनस्तस्येत्युक्तेः। तस्ये\उfffदार इत्यर्थे षष्ठ\उfffद्न्तात्, तत्र विदित इत्यर्थे तु सप्तम्यन्तादणञौ स्त इत्यर्थः। योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे `तत्र विदित' इत्यस्यैवानुवृत्त्यर्थश्च।

तत्त्वबोधिनी

1304 तत्र वदिति इति च। योगविभाग उत्तरार्थो, यथासङ्ख्यनिवृत्त्यर्थश्च।

Satishji's सूत्र-सूचिः

TBD.