Table of Contents

<<5-1-41 —- 5-1-43>>

5-1-42 तस्य ईश्वरः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन् विषये। सर्वभूमेः ईश्वरः सार्वभौमः। पार्थिवः। षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये। अन्यथा संयोगोत्पाताविव ईश्वरो ऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1149 सर्वभूमिपृथिवीभ्यामणञौ स्तः. अनुशतिकादीनां च. सर्वभूमेरीश्वरः सार्वभौमः. पार्थिवः..

बालमनोरमा

1685 तस्ये\उfffदारः।

तत्त्वबोधिनी

1303 तस्ये\उfffदारः। `तस्य निमित्त'मित्यतोऽनुवृत्त्यैव सिद्धे पुनः `तस्ये'ति निर्देशो निमित्तरूपप्रत्ययार्थस्य निवृत्तये। अन्यथा हि संयोगोत्पाताविवे\उfffदारोऽपि प्रत्ययार्थस्य विशेषणं संभाव्येत।

Satishji's सूत्र-सूचिः

TBD.