Table of Contents

<<5-1-40 —- 5-1-42>>

5-1-41 सर्वभूमिपृथिवीभ्याम् अणञौ

प्रथमावृत्तिः

TBD.

काशिका

सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यम् अणञौ प्रत्ययु भवतः तस्य निमित्तं संयोगौत्पातौ 5-1-38 इत्येतस्मिन् विषये। ठको ऽपवादौ। सर्वभूमेर् निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेः अनुशतिकादि पाठादुभयपदवृद्धिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1148

बालमनोरमा

1684 सर्वभूमि। तस्य निमित्तमित्येव। सर्वभूमि, पृथिवी–आभ्यां यथासङ्ख्यमणञौ स्तः। सार्वभौम इति। ठञोऽपवादोऽण्। पार्थिव इति। पृथिव्या निमित्तं संयोग उत्पातो वेत्यर्थः। स्त्रिया पार्थिवी। सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह– अनुशतिकादिषु पठ\उfffद्त इति। तथाच `अनुशतिकादीनां चे'त्युभयपदवृद्धिरिति भावः।

तत्त्वबोधिनी

1302 सर्वभूमि। आभ्यां यथासङ्ख्यमणञौ स्तः।

Satishji's सूत्र-सूचिः

TBD.