Table of Contents

<<5-1-37 —- 5-1-39>>

5-1-38 तस्य निमित्तं संयोगौत्पातौ

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थात् निमित्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तन् निमित्तं संयोगश्चेत् स भवति उत्पातो वा संयोगः सम्बन्धः प्राणिनां शुभाशुभसूचकः। महाभूतपरिणामः उत्पातः शतस्य निमित्त धनपतिना संयोगः शत्यः, शतिकः। साहस्रः। उत्पतः खल्वपि शतस्य निमित्तं उत्पातः दक्षिणाक्षिस्पन्दनम् शत्यम्, शतिकम्। साहस्रम्। तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्ख्यानम्। वातस्य शमनं कोपनं वा वातिकम्। पैत्तिकम्। श्लैष्मिकम्। सन्निपाताच् च इति वक्तव्यम्। सान्निपातिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1681 तस्य निमित्तम्। तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यथाविहितं षष्ठ\उfffद्न्ताट्ठञादयः स्युरित्यर्थः। शत्यः शतिको वेति। शतस्य निमित्तमित्यर्थः। `शताच्चे'ति यट्ठनौ। `धनपतिसंयोग इति। याजनशुश्रूषादिसम्पर्क इत्यर्थः। उत्पाते उदाहरति–शत्यं शतिकं वा दक्षिणाक्षिस्पन्दनमिति। शतस्य निमित्तमित्यर्थः। सूचकत्वमेवात्र निमित्तत्वमिति भावः। उपसङ्ख्यानमिति। `आर्हीयस्य ठक्' इति शेषः। कोपनं-वृद्धिः। संयोगोत्पातौ' इत्यर्थे ठ'गिति शेषः। सान्निपातिकमिति। सन्निपातो– वाततित्तश्लेष्मणां दोषाणां सङ्कर इति वैद्यके प्रसिद्ध। तस्य निमित्तं– सान्निपातिकम्, ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, संनिपातसूचकं जिह्वाकाष्ण्र्यादि च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.