Table of Contents

<<5-1-35 —- 5-1-37>>

5-1-36 द्वित्रिपूर्वादण् च

प्रथमावृत्तिः

TBD.

काशिका

शाणाद् वा 5-1-35 इत्येव। द्वित्रिपूर्वाच् छाणान्तात् प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकाराद् यच् च वा। तेन त्रैरूप्यं समद्यते। द्वैशाणम्, द्विशाण्यम्, द्विशाणम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्य असंज्ञाशाणयोः 7-3-17 इति पर्युदासादिवृद्धिरेव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1678 अथ शाणान्तद्विगोरुदाहरणं वक्ष्यन्विशेषमाह–द्वित्रिपूर्वादण्। च वार्तिकमिदम्। चाद्यदिति। पाक्षिको यत् चकारेण समुच्चीयत इत्यर्थः। ततश्च यतो।ञभावे ठञपि लभ्यते। तदाह-तेन त्रैरूप्यमिति। अणा, यता, ठञा चेत्यर्थः। अणि परिमाणान्तस्येत्युत्तरपदवृद्धिमाशङ्क्याह–परिमाणान्तस्येति। ठञादयस्त्रयोदशेति। `प्राग्वते'रिति ठञ्, `आर्हा'दिति ठक्, `शताच्चे'ति ठन्यतौ, `संज्ञायाः' इति कन्, `विंशतितिं?रशद्भ्या'ति ड्बुन्, `कंसा'दिति टिठन्, `शूर्पा'दित्यञ्, `शतमाने'त्यण्, `विंशतिकात्खः' इति खः, खार्याः' इति ईकन्, `पणपादे'ति यत्, `द्वित्री'ति वार्तिकोक्ताऽण्। इत्येव त्रयोदशेत्यर्थः। प्रकृता इति। प्रक्रान्ता इत्यर्थः। समर्थविभक्तय इति। `समर्थानां प्रथमाद्वे'ति सूत्रलभ्यसमर्थविशेषणीभूतप्रथमोच्चारिततत्तद्विभक्तय इत्यर्थः।

तत्त्वबोधिनी

1297 द्वित्रिपूर्वादण्। वार्तिकमिदं वृत्तिकृता सूत्रेषु प्रक्षिप्तम्। भाष्यादिप्रामाण्याच्छतग्रहणमिह न संबध्यत इत्याशयेनाह—-शाणादित्येवेति। न्यासकृता त्वण्विधायके वार्तिके सूत्रत्वभ्रमणे व्याख्यातम्—`शत शाणाभ्यां वे'ति सूत्रयितव्ये `पणवादे'कति पूर्वसूत्रे शतग्रहणं क्रियते तस्येदं फलं, — शतशब्दः स्वरितत्वेनानुवर्तमानोऽपि `शाणाद्वा'इत्यत्रैव संबध्यते, तदुत्तरसूत्रे `द्वित्रिपूर्वादण् चे'त्यत्र तु न संबध्यते, तेन शतशब्दादण् नेति। तदिदं सामथ्र्यवर्णनमण्विधायकं यदि सूत्रं स्यात्तदा सङ्गच्छते नान्यथेत्यास्तां तावत्। त्रैरूप्यमिति। तदेतद्दर्शयति—-द्वैशाणमित्यादिना। अण्येकं, ठञो लुकि द्वितीयं, यति तृतीयम्। ठञादयस्त्रयोदशेति। ननु एकदशैव प्रत्ययाः प्रकृताः, सूत्रभेदेन विहितत्वाद्यत्प्रत्ययस्य द्विर्गणने तु द्वादशेति त्रयोदशेत्येतद्दुरुपपादमेव। न च `शूर्पादञन्यतरस्या'मित्यन्यतरस्याङ्ग्रहणलभ्यठञमादाय त्रयोदशत्वं सूपपादिमिति वाच्यं, तुल्यन्यायेन `शाणाद्वे'ति सूत्रलभ्ययट्ठञोग्र्रहणेन पञ्चदशत्वप्रसङ्गात्। नापि सूत्रोपात्तैद्र्वादशभिः सह `द्वित्रिपूर्वादण् चे'ति वार्तिकोपात्ताऽण्प्रत्ययस्य गणनेन निर्वाहः।उक्तरीत्या`कंसाट्टिठ'न्निति सूत्रे `अर्धाच्चेति वक्तव्यं', `कार्षापणाट्टिठन्'इति सूत्रस्थ एव टिठन् अध्यर्धकार्षापणशब्दाभ्यां परामष्ट इति स नभिद्यते। `द्वित्रिपूर्वादण् चे'ति स वार्तिकस्थोऽण् तु भिद्यते, `शतमानविंशतिके'त्यणो दूरस्थत्वेन परामर्ष्टुंमशक्यत्वादिति।

Satishji's सूत्र-सूचिः

TBD.