Table of Contents

<<5-1-31 —- 5-1-33>>

5-1-32 विंशतिकात् खः

प्रथमावृत्तिः

TBD.

काशिका

अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तातार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशैकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यातस्य लुक् न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1674 विशतिकात्खः। अद्यर्धपूर्वाद्द्विगोरित्येवेति। पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्याऽसंभवाद्द्विगोरित्यस्य प्रयोजनाऽभावादननुवृत्तावपि इह तदनुवर्तत इति भावः। अध्यर्थविंशतिकीनमिति। अध्यर्धर्विंशत्या क्रीतमध्यर्थविंशतिकम्। `विशतितिं?रशद्भ्या'मिति योगविभागात्कन्। अध्यर्थविंशतिकेन क्रीतमिति विग्रहः। द्विविंशतिकीनमिति। द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः।

तत्त्वबोधिनी

1293 विंशतिकात्खः। `शतमानविंशतिके'त्यणिप्राप्ते, तस्य च लुकि प्राप्तेखोऽत्र विधीयते।

Satishji's सूत्र-सूचिः

TBD.