Table of Contents

<<5-1-30 —- 5-1-32>>

5-1-31 बिस्ताच् च

प्रथमावृत्तिः

TBD.

काशिका

द्वित्रिपूर्वातिति चकारेण अनुकृष्यते। द्वित्रिपूर्वाद् बिस्तान्ताद् द्विगोः परस्य आर्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विबिस्तम्, द्विबैस्तिकम्। त्रिबिस्तम्, त्रिबैस्तिकम्। बहुविस्तम्, बहुबैस्तिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1673 विस्ताच्च। `आर्हीयस्य लुग्वे'ति शेषः। द्विबिस्तं द्विबैस्तिकमिति। द्वाभ्यां बिस्ताभ्यां क्रीतमिति विग्रहः। ठञः पाक्षिको लुक्। इत्यादीति। बहुविस्तं बहुबैस्तिकमित्युदाहार्यम्। `बहुपूर्वाच्चे'ति वार्तिकस्य अत्राप्यनुवृत्तेर्भाष्ये उक्तत्वात्।

तत्त्वबोधिनी

1292 बिस्ताच्च। चकारेण `द्वित्रिपूर्वा'दित्यत्र पूर्वादित्यनुकृष्यते। तत्फलं तचु `चानुकृष्टं नोत्तरत्रे'त्युत्तरत्रानुवृत्त्यभावः।

Satishji's सूत्र-सूचिः

TBD.