TBD.
विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असंज्ञायां विषये आर्हीयेष्वर्थेषु। विंशकः। त्रिंशकः। ति विंशतेर् डिति 6-4-142 इति तिलोपः। असंज्ञायाम् इति किम्? विंशतिकः। त्रिंशत्कः। कथं पुनरत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यम्? योगविभागः करिष्यते, विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुनसंज्ञायां इति।
TBD.
–
1667 विंशतित्रिशद्भ्यां। नन्वेकसूत्रत्वे विंशतितिं?रशद्भ्यां ड्वुनेव स्यात्, कन् तु नस्यात्, `अतिशदन्ताया' इति निषेधादित्यत आह–योगेति। विंशतित्रिशद्भ्यामित्येकं सूत्रम्। `ड्वुन्नसंज्ञायां'मित्यपरमित्यर्थः। आद्यं व्याचष्टे–आभ्यां कन्स्यादिति। `शसङ्ख्याया अतिशदन्तायाः'इत्यतः कनित्यनुवर्तते इति भावः। द्वितीयसूत्रे विंशतितिं?रशद्भ्या'मित्यनुवृत्तिभिप्रेत्याह– असंज्ञायामिति। `आभ्या'मिति शेषः। विंशक इति। विंशत्या क्रीत इत्यर्थः। ड्वुन्। अकादेशः। `ति विंशतेर्डिती'ति तिशब्दस्य लोपः। तिं?रशक इति। ड्वुन्। अकादेशः। `टे'रिति टिलोपः। आद्यसूत्रं परिशेषात्संज्ञायामित्यभिप्रेत्याह–संज्ञायां त्विति। कंसात्। इत्यादि स्पष्टम्।
1287 कर्तव्य इति। अन्यथा। त्यन्तशदन्तयोः पर्युदासादिं?वशतितिं?रशद्भ्यां कन् दुर्लभ इति भावः। विंशक इथि। `ति विंशतेर्डिती'ति तिशब्दस्य लोपः।\र्\नार्धाच्चेति वक्तव्यम्। अर्धिक इति। अर्धशब्दस्य कार्षापणार्द्धे रुञत्वाद्भागवदपेक्षयाऽत्राऽसामर्थं नाशह्क्यम्। प्रकरणादिवशेन भावविशेषे विज्ञाते सति नास्त्य[स्याऽ]सामथ्र्यमिति बोध्यम्। एतेनाऽर्धशब्दस्य सापेक्षत्वात्तदन्तादेव टिठन्, द्रोणार्धिकः प्रस्थार्धिक इति केषांचिदुक्तिः परास्ता।
TBD.