Table of Contents

<<5-1-22 —- 5-1-24>>

5-1-23 वतोरिड् वा

प्रथमावृत्तिः

TBD.

काशिका

वत्वन्तस्य सङ्ख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य अनो वा इडागमो भवति आर्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1666 वतोरिड्वा। `वतो'रित्यनेन प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते। `क'न्निति प्रथमान्तमनुवृत्तम्, `वतो'रिति पञ्चमी `तस्मादित्युत्तरस्ये'ति परिभाषया षष्ठन्यतं प्रकल्पयति। तदाह–वत्वन्तादिति। तावतिक इति तावता क्रीत इत्यर्थः। `यत्तदेतेभ्यः' इति वतुप्। `बहुगणवतु' इति सङ्ख्यासंज्ञायां सङ्ख्याया अतिशदन्तायाः' इति कन्, तस्य इट्, टित्त्वादाद्यवयवः।

तत्त्वबोधिनी

1286 वतोरिड्वा। `वतोः'इति वञ्चमी, सा च `क'न्निति प्रथमायाः षष्ठीं कल्पतीत्याह– - वत्वन्तात्कन इति। तावतिक इति। `यत्तदेतेभ्यः'इति वतुप्। `आ सर्वनाम्नः' इत्यात्वम्।

Satishji's सूत्र-सूचिः

TBD.