TBD.
आर्हातित्येव। सङ्ख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु। ठञो ऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः। अतिशदन्तायाः इति किम्? साप्ततिकः। चात्वारिंशत्कः। अर्थवतस्तिशब्दस्य ग्रहणाड् डतेः पर्युदासो न भवति, कतिकः।
TBD.
–
1665 सह्ख्यायाः। तिश्च शश्च तिशतौ, तौ अन्ते यस्याः सा तिशदन्ता, न तिशदन्ता अतिशदन्ता। द्वन्द्वगर्भबहुव्रीहिगर्भो नञ्तत्पुरुषः। साप्ततिक इति। सप्तत्या क्रीत इत्यर्थः। `तेन क्रीत'मिति ठञ्। चात्वारिंशत्क इति। चत्वारिंशता क्रीत इत्यर्थः। `तेन क्रीत'मिति ठञष्ठस्य तकारात्परत्वात्कः।
1285 त्यन्तशदन्ताया इति। त्यन्तसहिता शदन्तेत्युत्तरपदलोपी समासः।थ पञ्चक इति। लौकिक्याः सङ्ख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। साप्ततिक इति। ठञो ञित्त्वादादिवृद्धिः। ठस्येकादेशे `यस्येति चे'तीकारलोपः। अर्थवतस्तिशब्दस्य ग्रहणाड्डत्यवयवस्य तिशब्दस्य पर्युदासो न भवतिष। कतिकः। चात्वारिंशत्क इति। `इसुसुक्तान्तात्कः'।
TBD.