Table of Contents

<<5-1-134 —- 5-1-136>>

5-1-135 होत्राभ्यश् छः

प्रथमावृत्तिः

TBD.

काशिका

गोत्राशब्दः ऋत्विग्विशेषवचनः। ऋत्विग्विशेषवाचिभ्यः छः प्रत्ययो भवति भावकर्मणोः। अच्छावाकस्य भावः कर्म वा अच्छावादीयम्। मित्रावरुणीयम्। ब्राह्मणाच्छंसीयम्। आग्नीध्रीयम्। प्रतिप्रस्थीत्रियम्। त्वष्ट्रीयम्। पोत्रीयम्। बहुवचनं स्वरूपविधिनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1777 होत्राभ्यश्छः। ऋत्विग्वाचीति। याज्ञिकप्रसिद्धेरिति भावः। ऋत्विग्विशेषवाचिभ्यः षष्ठ\उfffद्न्तेभ्यश्छः स्याद्भावकर्मणोरित्यर्थः।अच्छावाकीयमिति। `आ च त्वा'दिति त्वतलोरपि सर्वत्र समावेशो बोध्यः।

तत्त्वबोधिनी

1369 होत्राशब्द इति। जुहोतेरुआन्।

Satishji's सूत्र-सूचिः

TBD.