Table of Contents

<<5-1-131 —- 5-1-133>>

5-1-132 यौपधाद् गुरूपोत्तमाद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

त्रिप्रभृतीनाम् अन्तस्य समीपम् उपोत्तमम्। गुरुः उपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधात् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधातिति किम्? विमानत्वम्। गुरूपोत्तमातिति किम्? क्षत्रियत्वम्। सहायाद्वेति वक्तव्यम्। साहायकम्, साहाय्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1774 योपधात्। योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठ\उfffद्न्ताद्भावकर्मणोर्वुञित्यर्थः। रामणीयकमिति। रमणीयशब्दाद्वुञ्। आभिधानीयकमिति। अभिधानीयशब्दाद्वञ्।

भाष्ये क्वचिन्मृग्यम्।

तत्त्वबोधिनी

1367 योपधात्। गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः। योपधात्किम्?। विमानतवम्। गुरुपोत्तमादिति किम्?। क्षत्त्रियत्वम्। आभिधानीयकमिति। अत्र प्रकृतिरभेः परोऽनीयर्?प्रत्ययान्तो दधातिः। अबिदेयस्य भावः कर्म वेत्यर्थः। वचनम्। द्वन्द्वमनोज्ञादिभ्यश्च। मनोज्ञ, प्रियरूप, बहुल , अवश्य, इत्यादिर्मनोज्ञादिः।

Satishji's सूत्र-सूचिः

TBD.