Table of Contents

<<5-1-130 —- 5-1-132>>

5-1-131 इगन्ताश् च लघुपूर्वात्

प्रथमावृत्तिः

TBD.

काशिका

इगन्ताच् च लघुपूर्वातण् प्रत्ययो भवति भावकर्मणोः। लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते। लघुः पूर्वो ऽवयवो ऽस्य इति लघुपूर्वः। कुतः पुनरसौ लघुः पूर्वः। इक्सन्निधानादिकः इति वज्ञायते। लघुः पूर्वो यस्मादिकः तदन्तान् प्रातिपदिकादित्ययम् अर्थो विवक्षितः। अपरे तत्पुरुषकर्मधारयं वर्णयन्ति। इक् चासावन्तश्च इति इगन्तः। लघुपूर्वग्रहनेन स एव विशेष्यते, पश्चात् तेन प्रातिपदिकस्य तदन्तविधिः इति। अस्मिन् व्याख्याने ऽन्तग्रहणम् अतिरिच्यते। लघु पुर्वादिकः इत्येतावदेव वाच्यं स्यात्। शुचेर् भावः कर्म वा शौचम्। मौनम्। नागरम् हारीतकम्। पाटवम्। लाघवम्। इगन्तातिति किम्? पटत्वम्। घटत्वम्। लघु पूर्वातिति किम्? कण्डूत्वम्। पाण्डुत्वम्। कथं काव्यम् इति? ब्राह्मणादिषु कविशब्दो द्रष्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1161 इगन्ताल्लघुपूर्वात् प्रातिपदिकाद्भावेऽण् प्रत्ययः. पार्थवम्. म्रदिमा, मार्दवम्..

बालमनोरमा

1773 इगन्ताच्च। लघुः पूर्वोऽवयवो यस्येति विग्रहः। पूर्वत्वं च इगवधिकमेव गृह्रते, व्याख्यानात्। तथा च लघुपूर्वो य इक्तदन्तात्प्रातिपदिकात्षष्ठ\उfffद्न्ताद्भावकर्मणोरण्स्यादित्यर्थः। `गणवचने'त्यादेरपवादः। कतं काव्यमिति। कविशब्दस्य लघुपूर्वेगन्तत्वात् `गुणवचने'ति ष्यञं बाधित्वा अण्प्रसङ्गात्काव्यमिति कथमित्याक्षेपः। समाधत्तेः–कविशब्दस्येति। ब्राआहृणादित्वादित्यनन्तरं `ष्यञि उपपाद्य'मिति शेषः।

तत्त्वबोधिनी

1366 इगन्ताच्च। लघुः पूर्वोऽवयवो यस्येति प्रातिपदिकविशेषणम्। पूर्वत्वं च संनिधानदिगवधिकमेव। तेनाऽतिपाण्डुशब्दान्न भवति। `लघुपूर्वेकः'इत्येव सुवचम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

पूर्वश्चासौ इक् च लघुपूर्वेक्। तस्य प्रातिपदिकविशेषणात्तदन्तलाभ इति नव्याः। इगन्तात्किम्?। घटत्वम्। लघुपूर्वात्किम्?। पाण्डुत्वम्। कथं काव्यमिति। कुधातोः `ओरावस्यके'इति रूप सिद्धावपि कवेः कर्मेत्यर्थे कावमिति स्यादिति प्रश्नः।

Satishji's सूत्र-सूचिः

TBD.