Table of Contents

<<5-1-132 —- 5-1-134>>

5-1-133 द्वन्द्वमनोज्ञाऽदिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

द्वन्द्वसंज्ञकेभ्यः मनोज्ञाऽदिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञाद्भ्यः मानोज्ञकम्। काल्याणकम्। मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपत्र। कुशल। मनोज्ञादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1775 द्वन्द्वमनोज्ञादिभ्यश्च। द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठ\उfffद्न्तेभ्यो वुञित्यर्थः। शैष्योपाध्यायिकेति। शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ्। स्त्रीत्वं लोकात्। यद्यपि `योपधा'दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.