Table of Contents

<<5-1-129 —- 5-1-131>>

5-1-130 हायनान्तयुवादिभ्योऽण्

प्रथमावृत्तिः

TBD.

काशिका

हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश्च अण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म ना द्वैहायनम्। त्रैहायनम्। युवादिभ्यः यौवनम् स्थाविरम्। श्रोत्रियस्य यलोपश्च वाच्यः। श्रोत्रियस्य भावः कर्म वा श्रौत्रम्। युवन्। स्थविर। होतृ। यजमान। कमण्डलु। पुरुषासे। सुहृत्। यातृ। श्रवण। कुस्त्री। सुस्त्रि। मुहृदय। सुभ्रातृ। वृषल। दुर्भ्रातृ। हृदयासे। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1772 हायनान्त। हायनान्तेभ्यो युवादिभ्यश्च षष्ठ\उfffद्न्तेभ्यो भावकर्मणोरण्स्यादित्यर्थः। द्वैहायनमिति। द्विहायनस्य भावः कर्म वेति विग्रहः। वयोवचनलक्षणस्य अञो।ञपवादः। एवं–त्रैहायनमपि। यौवनमिति। `अ'निति प्रकृतिभावान्न टिलोपः। श्रोत्रियशब्दात्षष्ठ\उfffद्न्ताद्भावकर्मणोरण्, प्रकृतेर्यलोपश्चेत्यर्थः। येति सङ्घातग्रहणम्। श्रोत्रमिति। छन्दोऽधीते इत्यर्थे छन्दस्शब्दाद्धप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशे `यस्येति चे'त्यल्लोपे श्रोत्रियशब्दः। श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराऽकारसङ्घातस्य लोपे रेफादिकारस्य `यस्येति चे'ति लोपे श्रोत्रमिति रूपम्। यकारादकारस्य `यस्येति चे'ति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण्स्यात्। नच तस्य `यस्येति चे'ति लोपः शङ्क्यः, `लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति'रिति न्यायात्। अकारलोपस्य स्थानित्वेन इकारान्तस्य भत्वाऽभावाच्च। `श्रोत्रियस्य घलोपश्चे'त्येके पठन्ति।

तत्त्वबोधिनी

1365 हायनान्त। अस्मात्त्वतलोः प्राप्तयोरण्विधानम्। युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अञि प्राप्ते। योवनमिति। अणि परतः `अन्'इति प्रकृतिभावः। मनोज्ञादिपाठाद्वञपि। यौवनकम्। `प्रकृत्याऽके राजन्यमनुष्ययुवानः'इति प्रकृति भावः। `श्रोत्रियंश्छन्दोऽधीते'इत्यत्र छान्दसः श्रोत्रभावः, घंश्च प्रत्यय इति यदा व्याख्यानं तदेह `घलोपः'इति यथाश्रुतम्। यदा तु `वाक्यार्थे पदवचन'मिति पक्षस्तदा घशब्देन इय इति रूपं लक्ष्यते। क्वचित्तु `यलोपश्चे'ति पाठः, तत्र येति संघातग्रहणं व्याख्येयम्। वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तु `यस्येति चे'ति लोपः , अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाऽबावात्। एतच्च हरदत्तग्रन्थे स्पष्टम्। मूलपुस्तकेषु `यलोपः'इति मुख्यपाठ एव प्रायेण दृश्यते, न तु `घलोप'इति पाठः।

Satishji's सूत्र-सूचिः

TBD.