TBD.
प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ् प्रत्ययो भवति भावक्रमणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः कौमारम्। कैशोरम्। उद्गात्रादिभ्यः औद्गात्रम्। औन्नेत्रम्। उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। सुभग मन्त्रे। उद्गात्रादिः।
TBD.
–
1771 प्राणभृज्जाति। प्राणभृतः–प्राणिनः, तज्जातिवाचिभ्यो, वयोविशेषवाचिभ्य, उद्गात्रादिभ्यश्च षष्ठ\उfffद्न्तेभ्यो भावकर्मणोरञित्यर्थः। प्राणभृज्जातीति। उदाहरणसूचनम्। एवं वयोवचनेति।
1364 प्राणभृज्जति। मुखनासासंचारी वायुः प्राणः। `प्राणिजाती'त्येव सुवचम्। प्राणभृदिति किम्?। तृणत्वम्। तृणता। जातीति किम्?। देवदत्तत्वम्। औद्गात्रमिति। उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्यो `होत्राभ्यश्छः'इति छे प्राप्ते अञ् विधीयते। सुष्ठु दुष्ठु—–द्वाभ्यां गुणलक्षणे ष्यञि प्राप्ते, वधूशब्दादिगन्तलक्षमेऽणि, शेषेभ्यस्त्बतलोः प्राप्तयोः। इह तु `सुभगं मन्तेर'इतिपट\उfffद्ते। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः। `महते सौभगाय'। सर्वविधीनां छन्दसि वैकल्पिकत्वादिह `ह्मद्भगसिन्ध्वन्ते'इत्युत्तरपदवृद्धिर्न भवति। अतएव मन्तेरऽपि क्वचिदञ् न भवति। `सौभाग्यमस्यै दत्त्वाय'। इह ष्यञ्।
TBD.