Table of Contents

<<5-1-126 —- 5-1-128>>

5-1-127 कपिज्ञात्योर् ढक्

प्रथमावृत्तिः

TBD.

काशिका

कपिज्ञातिशब्दाभ्यां ढक् प्रययो भवति भावकर्मणोरर्थयोः। कपेर् भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासङ्ख्यम् अर्थयोः सर्वत्र एव अत्र प्रकरणे न इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1165 कापेयम्. ज्ञातेयम्.

बालमनोरमा

1769 कपिज्ञात्योर्ढक्। पञ्चम्यर्थे षष्ठी। आभ्यामपि षष्ठ\उfffद्न्ताभ्यां भावकर्मणोर्ढगित्यर्थः। अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात्।

तत्त्वबोधिनी

1363 कपिज्ञात्योः। इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासङ्ख्यं नभवति, अस्वरितत्वप्रतिज्ञानात्। एवं `पत्यन्तपुरोहितादिभ्यःट, `द्वन्द्वमनोज्ञादिभ्यः'इत्यत्रापि बोध्यम्। ब्राआहृणादित्वादिति। यद्यपि ब्राआहृणादिषु राजन् शब्दः केवलः पठितस्तथाप्ययमेव `असे'इति प्रतिषेधो ज्ञापयति `अस्त्यत्र प्रकरणे राजन्?शब्देन तदन्तविधि'रिति। एवं त ब्राआहृणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अन्ये तु ब्राआहृणादेराकृतिगणत्वादेव तदन्तात्कतंचित्ष्यञि सिद्धे राजन्?शब्दस्य तत्रपाठो यका सह समावेशार्थ इति। तथा चावेष्ट\उfffद्धिकरणे शाबरभाष्ये उक्तं—`राज्ञः कर्म राज्यं, ब्राआहृणादित्वात् ष्यञि'ति। पुरोहित, सङ्ग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः।

Satishji's सूत्र-सूचिः

TBD.