Table of Contents

<<5-1-125 —- 5-1-127>>

5-1-126 सख्युर् यः

प्रथमावृत्तिः

TBD.

काशिका

सखिशब्दात् यः प्रत्ययो भवति भावकर्मणोरर्थयोः। सख्युः भावः कर्म वा सख्यम्। दूतवणिग्भ्यां च इति वक्तव्यम्। दूत्यम्। वणिज्यम्। कथं वाणिज्यम्? ब्राह्मणादित्वात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1164 सख्युर्भावः कर्म वा सख्यम्..

बालमनोरमा

1768 सख्युर्यः। सखिशब्दात्षष्ठ\उfffद्न्ताद्भावकर्मणोर्यः स्यादिति वक्तव्यमित्यर्थः। नास्त्येवेति। वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात्, पाठस्य चाऽभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः। तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यत्प्रत्ययः, किंतु ष्यञेवेत्याह–ब्राहृणादित्वाद्वाणिज्यमपीति। अपिना दौत्सयसङ्ग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.