TBD.
गुणम् उक्तवन्तो गुणवचनाः। गुणवचनेध्यो ब्राह्मणादिभ्यश्च तस्य इति षष्थीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ् प्रत्ययो भवति। चकाराद् भावे च। कर्मशब्दः क्रियावचनः। जडस्य भावः कर्म वा जाड्यम्। ब्राह्मणादिभ्यः खल्वपि ब्राह्मण्यम्। माणव्यम्। आपादपरिसमाप्तेर् भावकर्माधिकारः। ब्राह्मणादिराकृतिगणः। आदिशब्दः प्रकारवचनः। चतुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानम्। चत्वार एव वर्णाः चातुर्वर्ण्यम्। चातुराश्रम्यम्। त्रैलोक्यम्। त्रैस्वर्यम्। षाड्गुण्यम्। सैन्यम्। सान्निध्यम्। सामीप्यम्। औपम्यम्। सौख्यम्। ब्राह्मण। वाडव। माणव। चोर। मूक। आराधय। विराधय। अपराधय। उपराधय। एकभाव। द्विभाव। त्रिभाव। अन्यभाव। समस्थ। विषमस्थ। परमस्थ। मध्यमस्थ। अनीश्वर। कुशल। कपि। चपल। अक्षेत्रज्ञ। निपुण। अर्हतो नुम् च आर्हन्त्यम्। संवादिन्। संवेशिन्। बहुभाषिन्। बालिश। दुष्पुरुष। कापुरुष। दायाद्। विशसि। धूर्त। राजन्। संभाषिन्। शीर्षपातिन्। अधिपति। अलस। पिशाच। पिशुन। विशाल। गणपति। धनपति। नरपति। गडुल। निव। निधान। विष। सर्ववेदादिभ्यः स्वार्थे। चतुर्वेदस्य उभयपदवृद्धिश्च। चातुर्वैद्यम्। इति ब्राह्मणादिः।
TBD.
1163 चाद्भावे. जडस्य भावः कर्म वा जाड्यम्. मूढस्य भावः कर्म वा मौढ्यम्. ब्राह्मण्यम्. आकृतिगणोऽयम्..
1765 षष्ठ\उfffद्न्तेभ्यो भावे कर्मणि च अर्थे ष्यञित्यर्थः। \र्\नर्हतो नुम्चेति। वार्तिकमिदम्। `अर्हः प्रशंसाया'मिति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः। अर्हच्छब्दात्ष्यञ्स्यात्प्रकृतेर्नुम्चेत्यर्थः। मित्त्वादन्त्यादचः परः। अनुस्वारपरसवर्णौ। लोकान्नपुंसकत्वं स्त्रीत्वं च। तदाह–आर्हन्त्यम्, आर्हन्तीति। आर्हन्त्यशब्दान्ङीषि `हलस्तद्धितस्ये'ति यलोपः। यथातथेति निपातसमुदायः। यथापुरमिति पुराशब्देन पदार्थनतिवृत्तावव्ययीभावः। इमौ शब्दौ नञ्पूर्वपदौ ब्राआहृणादी।
1361 गुणवचन। ष्यञनुवर्तते, कर्म क्रिया कार्यं च। `शरीरायासमात्रसाध्यं शौचादि क्रिया। शास्त्रेण विहितो यागादिः कार्य'मिति तयोर्भेदमाहुः।\र्\नर्हतो नुम् च। अर्हत इति। `अर्हः प्रशंसाया'मिति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः। आकृतिगण इति। केषांचित्पाठस्तु कार्यान्तराय। तथा हि `अर्हतो नुम् चे'ति नुमर्थः पाठः। एकभावः, त्रिभावः, अन्यभावः,—एषां पाठः स्वार्थे विधानार्थः। तथा च प्रत्याहाराह्निके वार्तिकप्रयोगः—`आन्यभाव्यं तु कालशब्दव्यावाया'दिति। अन्यभाव एव आन्यभाव्यम्। अन्यत्वमित्यर्थः। यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम् `आन्यभाव्यमपप्रयोगः'इति, तत्त्ववैयाकरण मीमांसकसंतोषार्थमित्यवधेयम्। सर्ववेद इति। `पूर्वकालैके'ति समासः। इति। तद्धितार्थे द्विगुः। `द्विगोर्सुगनपत्ये'इत्यणो लुक्। चतुर्विद्य इति। `विद्यालक्षणसूत्रान्ता'दिति ठक्। तस्य लुक्।
TBD.