Table of Contents

<<5-1-115 —- 5-1-117>>

5-1-116 तत्र तस्य इव

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थात् तस्य इति षष्ठीसमर्थाच् च इवार्थे वतिः प्रत्ययो भवति। मथुरायाम् इव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत् साकेते परिखा। षष्थीसमर्थात् देवदत्तस्य इव देवदत्तवत् यज्ञादत्तस्य गावः। यज्ञदत्तस्य इव यज्ञदत्तवत् देवदत्तस्य दन्ताः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1155 मथुरायामिव मथुरावत् स्रुग्ध्ने प्रकारः. चैत्रस्येव चैत्रवन्मैत्रस्य गावः..

बालमनोरमा

1756 तत्र तस्येव। तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात्षष्ठ\उfffद्न्ताच्च वतिः स्यादित्यर्थः। अतृतीयान्तार्थ आरम्भः। अस्मादेव निर्देशादिवशब्दयोगे षष्ठ\उfffद्र्थे सप्तम्यपीति भाष्यम्। अत्र `क्रिया चे'दिति नानुवर्तते इत्यभिप्रेत्योदाहरति–मधुरायामिव मधुरावत्स्नुघ्ने प्राकार इति। अत्र मधुरायामिवेति नाधिकरणसप्तमी, तथा सति विद्यमानेति क्रियापदासपेक्षतया असामथ्र्यात्। अत एव अस्मादेव सूत्रनिर्देशादिवशब्दायोगे षष्ठ\उfffद्र्थे सप्तमीति भाष्यं सङ्गच्छते। मधुरासम्बन्दिप्राकारसदृशः रुआउघ्नस्य प्राकार इति बोधः। मैत्रस्य भाव इति। वृत्तमित्यर्थः।

तत्त्वबोधिनी

1353 तत्र तस्येव। सप्तम्यन्तात् षष्ठ\उfffद्न्ताच्च इवार्थे प्रत्ययः। `क्रिया चेत्'इति नानुवर्तते इति द्रव्यादितुल्येऽत्र वत्प्रत्ययो भवति। मथुरावत्रुआउघ्ने इति। मथुरायां यादृशः प्राकारस्तेन तुल्यः प्राकारः स्नुघ्ने इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.