TBD.
ततिति द्वितीयासमर्थातर्हम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानम् अर्हति राजवत् पालनम्। ब्राह्मणवतृषिवत्। क्षत्रियवत्।
TBD.
–
1757 तदर्हम्। अर्हतीत्यर्हम्। पचाद्यच्। तदिति कर्मणि द्वितीयान्तम्, लब्धुं योग्यं भवतीत्यर्थात्। कृद्योगलक्षणषष्ठ\उfffद्भावस्तु आर्षः। वतिरित्यनुवर्तते। द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः। विधिमर्हतीति। विधिं लब्धुं योग्यं भवतीत्यर्थः। विधिबत्पूज्यत इति। `हरि'रिति शेषः। विंधिं लब्धु योग्यं हरिपूजनमित्यर्थः। विहितं प्रकारमनतिक्रान्तमिति यावत्। मण्डूकप्लुत्येति। पूर्वसूत्रे अननुवृत्तेरिति भावः।
1354 तदर्हम्। अर्हतीत्यहम्। पचाद्यच्। यद्यपि कृद्योगे कर्मणि षष्ठ\उfffदा भवितव्यम्, तथापि अत्र सौत्रो विभक्तिव्यत्यय इत्येके। `कर्तृकर्मणो'रिति षष्ठ\उfffदा अनित्यत्वे ज्ञापकमिदम्। तेन च `धायैरामोदमुत्तम'मिति भट्टिप्रयोगः सङ्गच्छत इति तु कारकेष्ववोटाम। द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन वगृह्णाति—-विधिमर्हतीति। कथं तर्हि `ततो यथावद्विहिताध्वराये 'कि असत्त्वार्थकस्य कर्मत्वाऽसंभवेन द्वितीयान्तत्वाऽभावादिति चेत्। अत्राहुः—- यथाशब्दो वृत्तिविषये सत्त्वार्थकः, `तथात्वं' `यथात्व'मित्यादिषु त्वतलादिदर्शनात्। अन्यथा षष्ठ\उfffद्पि नास्तीति त्वतलौ न स्याताम्। तथा च द्वितीयान्ताद्यशब्दादर्हार्थे वतिः। योग्यतामर्हतीति विधानमित्यर्थाक्रियायोगोऽपि सुलभ इति।
TBD.