Table of Contents

<<5-1-113 —- 5-1-115>>

5-1-114 आकालिकडाद्यन्तवचने

प्रथमावृत्तिः

TBD.

काशिका

आकालिकटिति निपात्यते आद्यन्तवचने। समानकालशब्दस्य आकालशब्द आदेशः। आद्यन्तयोश्च एतद् विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समानकालौ आद्यन्तौ अस्य आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पादानन्तरं विनाशिनीत्यर्थः। आकालाट् ठंश्च। चात् ठञ् च। आकालिका विद्युत्। ठञः पूर्णो ऽवधिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

363 आकालिकट्। समानकालाविति बहुव्रीहिः। आद्यन्ताविति। उत्तपत्तिवनाशादित्यर्थः। समानकालस्येति। समानकालशब्दस्य इकप्रत्यये परे आकालादेशो निपात्यत इत्यर्थः ननूत्पत्तिविनाशयोकेककालिकत्वमसंभवपराहतमित्यत आह–आशु विनाशीति। लक्षणां विनैवाह- -पूर्वदिने इति। \र्\नाकालाट्ठंश्चेति। आकालशब्दादाद्यन्तवचनाट्ठन्प्रत्ययश्च वक्तव्य इत्यर्थः। चाट्ठञ्। आकालिका विद्युदिति। ठनि टाप्। ठञि तु ङीप्। आकालिकी। अर्थः प्राग्वत्। * इतः षडिति। `ऋषी गतौ' इत्यतः प्रागित्यर्थः।

तत्त्वबोधिनी

317 आकाल आदेश इति। `निपात्यते'इति शेषः। आद्यन्तौ यस्येत्यादि। अस्येत्यधिकारात्षष्ठ\उfffद्र्थे इकट् प्रत्ययो निपात्यत इति भावः।\र्\नाकालाट्ठंश्च। आकालाट्ठंश्चेति। वार्तिकमिदम्। पूर्णोऽवधिः।\त्\र्\निति तत्त्वबोधिन्यां ठञधिकारः। तुदादयः।

Satishji's सूत्र-सूचिः

TBD.