TBD.
ऐकागारिकटिति निपात्यते चौरे ऽभिधेये। एकागारं प्रयोजनम् अस्य ऐकागारिकः चौरः। ऐकागारिकी। किम् अर्थम् इदं निपात्यते, यावता प्रयोजनम् इत्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम्। इह मा भूत्, एकागारं प्रयोजनम् अस्य भिक्षोः इति। ठकारः कार्यावधारणार्थः, ङीबेव भवति न ञित्स्वरः इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति।
TBD.
–
1753 ऐकागारिकट् चौरे। एकमगारं प्रयोजनं=प्रयोजकस्य चोरस्येति विग्रहे एकागारशब्दादिकट्प्रत्यये ऐकागारिकडिति निपात्यते। टित्त्वं ङीबर्थम्। प्रयोजनमित्येय सिद्धे चोर एवेति नियमार्थ सूत्रम्। एकमित्यस्य विवरणम्– असहायमिति। `एके मुख्यान्यकेवलाः' इत्यमरः। मुमुषिषोरिति। चौर्यं कर्तुमिच्छोरित्यर्थः। चोरस्य हि असहायमगारमिष्टं, गोहान्तरसत्त्वे चौर्यप्रकरटनप्रसङ्गादिति भावः। चोरे किम् ?। एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव। भाष्ये तु `एकागाराच्चोरे' इत्येव सुवचं, प्रकृतत्वाट्ठञ् सिद्ध इत्युक्तम्।
1350 ऐकागारिकट्। टो ङीबर्थः।ऐकागारिकी। किमर्थमिदमुच्यते यावता `प्रयोजन'मित्येव ठञि सिद्धम्?। सत्यम्। चौरे नियमार्थमावश्यकमिदं सूत्रम्। अन्यथा एकागारं प्रयोजनं यस्य भिक्षोरित्यत्रापि स्यात्। नन्वेवमपि `ऐकागाराच्चौरे'इति ठञेव नियम्यतां किमैकागारिक इति निपातनेन, चित्कणेन च प्रयोजनमिति चेत्। अत्राहुः—टकारः कार्यावधारणार्थः—ङीबेव भवति न ञित्स्वर इति। वृद्धिस्तु निपातनाद्भवत्येवेति।
TBD.