Table of Contents

<<5-1-111 —- 5-1-113>>

5-1-112 समापनात् सपूर्वपदात्

प्रथमावृत्तिः

TBD.

काशिका

समापनशब्दात् सपूर्वपदात् विद्यमानपूर्वपदाच् छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये। ठञो ऽपवादः। छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1752 समापनात्सपूर्वपदात्। सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः। व्याकरणसमापनीय इति। `मङ्गलाचार' इति शेषः।

तत्त्वबोधिनी

1349 सपूर्वपदादिति। विद्यमानपूर्वपदादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.