Table of Contents

<<5-1-110 —- 5-1-112>>

5-1-111 अनुप्रवचनाऽदिभ्यश् छः

प्रथमावृत्तिः

TBD.

काशिका

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्यस्मिन् विषये ठञो ऽपवादः। अनुप्रवचनं प्रयोजनम् अस्य अनुप्रवचनीयम्। उत्थापनीयम्। विशिपूरिपतिरुहिप्रकृतेरनात् सपूर्वपदादुपसङ्ख्यानम्। गृहप्रवेशनं प्रयोजनम् अस्य गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतिनीयम्। प्रासादारोहणीयम्। स्वर्गादिभ्यो यद् वक्तव्यः। स्वर्गः प्रयोजनम् अस्य स्वर्ग्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम्। पुण्याहवाचनादीभ्यो लुग् वक्तव्यः। पुण्याहवाचनं प्रयोजनम् अस्य पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवाचनम्। अनुप्रवचन। उत्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेषन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररोहण। अन्वारोहण। अनुप्रवचनादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1751 अनुप्रवचनादिभ्यश्चः। प्रथमान्तादनुप्रवचनादिशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः। अनुप्रवचनं नाम उपनयनाङ्गं किञ्चित्कर्म आ\उfffदालायनसूत्रे प्रसिद्धम्।

तत्त्वबोधिनी

1348 अनुप्रवचना। अनुप्रवचनं नाम ब्राह्मौदनमुच्यते।

Satishji's सूत्र-सूचिः

TBD.