TBD.
विशाखाषढाशब्दाभ्याम् अण् प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये यथासङ्ख्यम् मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनम् अस्य वैशाखो मन्थः। आषाढो दण्डः। चूडादिभ्य उपसङ्ख्यानम्। चूडा प्रयोजनम् अस्य चौडम्। श्रद्धा प्रयोजनम् अस्य श्राद्धम्।
TBD.
–
1750 विशाखाषाढात्। विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः। तदाह–आब्यामिति। स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते। येन रज्ज्वा भ्रामितेन दधि विलोड\उfffद्ते इति स्थितिः। तत्र स्थूणा मन्थ इत्युच्यते। मन्थानाख्यदण्डो दण्ड उच्यते। अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ। तत्रावयवार्थाभिनिवेशो न कर्तव्यः। चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः। चौडमिति। चूडाप्रयोजनमस्येति विग्रहः। डलयोरभेदाच्चौलमित्यपि। श्राद्धमिति। श्रतद्धा प्रयोजनमस्येति विग्रहः। श्रद्धाशब्दादणि श्राद्धमित्यर्थः। अत्र प्रयोजनशब्दः कारणवाची। श्रद्धाहेतुकमिति यावत्।
–
TBD.