Table of Contents

<<5-1-108 —- 5-1-110>>

5-1-109 प्रयोजनम्

प्रथमावृत्तिः

TBD.

काशिका

तदस्य इत्येव। तदिति प्रथमसमर्थातस्य इति षष्थ्यर्थे ठञ् प्रययो भवति, यत् तत् प्रथमासमर्थं प्रयोजनं चेद् तद् भवति। इन्द्रमहः प्रयोजनम् अस्य ऐन्द्रमहिकम्। गाङ्गामहिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1749 प्रयोजनम्। तदस्येत्येवेति। अस्य प्रयोजनमित्यर्थे प्रथमान्ताट्ठञित्यर्थः। इन्द्रमह इति। इन्द्रोत्सव इत्यर्थः। `मह उद्धव उत्सवः' इत्यमरः। प्रयोजनं फलं कारणं चेति। प्रयुज्यते प्रवृत्त्या निष्पाद्यते इति कर्मणि ल्युटि प्रयोजनशब्दः फलवाची। प्रयुज्यते प्रवर्तते पुरुषोऽनेनेति करणे ल्युटि प्रयोजनशब्दः प्रवर्तकवाचीत्यर्थः।

तत्त्वबोधिनी

1347 इन्द्रमह इति। महः—उत्सवः। वैशाखो मन्थः। आषाढो दण्ड इति। वैशाखाऽऽषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते। तयोस्तु यथा कथंचिद्व्युत्पत्तिः क्रियत इति हरदत्तः। विलोडनदण्डस्यैवाधारभूतः काष्ठविशेषो `मन्थ'इत्युच्यते।

Satishji's सूत्र-सूचिः

TBD.