Table of Contents

<<5-1-107 —- 5-1-109>>

5-1-108 प्रकृष्टे ठञ्

प्रथमावृत्तिः

TBD.

काशिका

कालातित्येव, तदस्य इति च। प्राप्तम् इति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात् कालात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालो ऽस्य कालिकमृणम्। कालिकं वैरम्। ठञ्ग्रहणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1748 प्रकृष्टे ठञ्। अस्य प्राप्त इत्यर्थे प्रकृष्टवृत्तेः कालशब्दाट्ठञित्यर्थः। यतोऽपवादः। प्रकृष्टशब्दस्य विवरणं-दीर्घ इति।

तत्त्वबोधिनी

1346 प्रकृष्टे ठञ्। प्रकृष्यते अयमिति प्रकृष्टः। कर्मणि क्तः। तेन च प्रकर्षेण कालो विशेष्यते इत्याह—दीर्घः काल इति। ठञ्?ग्रहणं विस्पष्टार्थम्, अन्यथा अनन्तरस्य यतोऽनुवृत्तिराशङ्क्येत।

Satishji's सूत्र-सूचिः

TBD.