Table of Contents

<<4-4-93 —- 4-4-95>>

4-4-94 उरसो ऽण् च

प्रथमावृत्तिः

TBD.

काशिका

उरःशब्दात् तृतीयासमर्थान् निर्मिते इत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति, चकारात् यत् च। उरसा निर्मितः औरसः पुत्रः, उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1626 उरसोऽण्च। `तृतीयान्तान्निर्मिते इत्यर्थे' इति शेषः। उरस्य इति। `अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे' इति श्रुतेरिति भावः। `पुत्र' इति संज्ञाधिकाराल्लब्धम्।

तत्त्वबोधिनी

1253 पुत्र इति। संज्ञाधिकारान्नेह–उरसा निर्मितं सुखम्।

Satishji's सूत्र-सूचिः

TBD.