Table of Contents

<<4-4-92 —- 4-4-94>>

4-4-93 छन्दसो निर्मिते

प्रथमावृत्तिः

TBD.

काशिका

प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः। छन्दःशब्दात् तृतीयासमर्थान् निर्मिते इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। निर्मितः उत्पादितः। छन्दसा निर्मितः छन्दस्यः। छन्दसा इच्छया कृतः इत्यर्थः। इच्छापर्याय छन्दःशब्दः इह गृह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1625 छन्दसो निर्मिते। छन्दश्शब्दात्तृतीयान्तान्निर्मितेऽर्थे। यदित्यर्थः। इच्छयेति। छन्दःशब्द इच्छावाचीति भावः। `छन्दः पद्येऽभिलाषे चे'त्यमरः।

तत्त्वबोधिनी

1252 छन्दसो। `छदि संवरे'इति चुरादिरिच्छायामपि वर्तते, धातूनामनेकार्थत्वात्। ततो घञि इच्छापर्यायश्छन्दः–शब्दः प्रसिद्ध एव `स्वच्छन्दोच्छलदच्छकच्छे'त्यादौ। असुनि तु यः सान्तः सोऽत्र प्रकृतिः। तत्र निर्माणे इच्छायाः करणत्वत्सामथ्र्यात्तृतीयान्तात्प्रत्ययः। इच्छया कृतमिति। यद्यपिवेदे त्रिष्टुबादिषु च सान्तश्छन्दः शब्दोऽस्ति, तथापीह न गृह्रते, संज्ञाधिकारात्, किं त्विच्छापर्याय एव स गृ-ह्रत इति भावः।

Satishji's सूत्र-सूचिः

TBD.