Table of Contents

<<4-4-91 —- 4-4-93>>

4-4-92 धर्मपथ्यर्थन्यायादनपेते

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव पञ्चमी समर्थविभक्तिः। धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतः इत्यर्थे यत् प्रत्ययो भवति। धर्मातनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम्। संज्ञाधिकारादभिधेयनियमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1624 धर्मपथ्यर्थ। धर्म, पथिन्, अर्थ, न्याय एभ्योऽनपेतमित्यर्थे यदित्यर्थः। औचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते। धर्मादनपेतमिति। अप्रच्युतमित्यर्थः। पथ्यमिति। पथोऽनपेतमित्यर्थः। न्याय्यमिति। न्यायदनपेतमित्यर्थः।

तत्त्वबोधिनी

1251 पथ्यमिति। संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम्। न तु मार्गादनपेतश्चोरोऽपि।

Satishji's सूत्र-सूचिः

TBD.