Table of Contents

<<4-4-91 —- 4-4-93>>

4-4-92 धर्मपथ्यर्थन्यायादनपेते

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव पञ्चमी समर्थविभक्तिः। धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतः इत्यर्थे यत् प्रत्ययो भवति। धर्मातनपेतं धर्म्यम्। पथ्यम्। अर्थ्यम्। न्याय्यम्। संज्ञाधिकारादभिधेयनियमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1624 धर्मपथ्यर्थ। धर्म, पथिन्, अर्थ, न्याय एभ्योऽनपेतमित्यर्थे यदित्यर्थः। औचित्यात्पञ्चम्यन्तेभ्य इति लभ्यते। धर्मादनपेतमिति। अप्रच्युतमित्यर्थः। पथ्यमिति। पथोऽनपेतमित्यर्थः। न्याय्यमिति। न्यायदनपेतमित्यर्थः।

तत्त्वबोधिनी

1251 पथ्यमिति। संज्ञाधिकारादभिधेयनियमः, तेन शास्त्रीयात्पथोऽनपेतमेव पथ्यम्। न तु मार्गादनपेतश्चोरोऽपि।

Satishji's सूत्र-सूचिः

TBD.