Table of Contents

<<4-4-88 —- 4-4-90>>

4-4-89 संज्ञायां धेनुष्या

प्रथमावृत्तिः

TBD.

काशिका

धेनुष्या इति निपात्यते संज्ञायां विषये। संज्ञाग्रहणम् अभिधेयनियमार्थम्। धेनोः सुगागमो यश्च प्रत्ययः निपात्यते। अन्तोदात्तो ऽपि ह्ययम् इष्यते। या धेनुरुत्तमर्णाय ऋणप्रदानाद् दोहनार्थं दीयते सा धेनुष्या। पीतदुग्धा इति यस्याः प्रसिद्धिः। धेनुस्यां भवति ददाऽमि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1621 संज्ञायां धेनुष्या। यप्रत्ययश्चेति। यति तु तित्स्वर) स्यादिति भावः। धेनुष्येति। या धेनुर्दोहनार्थमुत्तमर्णाय अधमर्णेन दीयते तस्या इयं संज्ञा। तदाह- -बन्धके स्थितेति। अमरवाक्यमिदम्। संज्ञायामित्या पादपरिसमाप्तेरधिकारः। संज्ञा हि रूठिर्विवक्षिता।

तत्त्वबोधिनी

1248 संज्ञायामिति। ऋणप्रत्यर्पणाय या धेनुर्दोहनार्थमुत्तमर्णाय दीयते तस्या संज्ञेयम्।

Satishji's सूत्र-सूचिः

TBD.