Table of Contents

<<4-4-87 —- 4-4-89>>

4-4-88 मूलम् अस्य आवर्हि

प्रथमावृत्तिः

TBD.

काशिका

मुलशब्दात् प्रथमासमर्थादावर्हि इत्येवम् उपाधिकादस्य इति षष्ठ्यर्थे यत् प्रत्ययो भवति। मूलम् एषाम् आवर्हि मूल्या माषाः। मूल्या मुद्गाः। वृहू उद्यमने। येषां मूलम् आवृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः। मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1620 मूलमस्याबर्हि। आबर्हणमिति। उत्पाटनमित्यर्थः। उपसर्गवशात् `बृहूउद्यमने' इति धातोरुत्पाठने वृत्तिः। मूल्या मुद्गा इति। मूलत उत्पाटनीया इत्यर्थः।

तत्त्वबोधिनी

1247 मूलमस्याबर्हि। प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दादस्येति षष्ठ\उfffद्र्थे यत्स्यात्। आवर्ह इति। `वृहू उद्यमने'दन्त्योष्ठ\उfffदादिरयम्, न तु परवर्गादिः, `उद्वृह रक्षः सहमूलनिन्द्रे'त्यादिप्रयोगदर्शनात्। मूल्या मुद्गा इति। मूलोत्पटनं विना सङ्ग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था अपि सयस्यामवस्थायां पतेयुस्तमवस्थां प्राप्ताः। सुष्ठु शुष्का इति यावत्। यप्रत्यय इति। तेनधेनुष्याशब्दोऽन्त उदात्तः। यतु तु तित्स्वरः स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.