Table of Contents

<<4-4-89 —- 4-4-91>>

4-4-90 गृहपतिना संयुक्ते ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

निर्देशादेव तृतीया समर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तः गार्हपत्यो ऽग्निः। अन्यस्य अपि गृहपतिना संयोगो ऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1622 गृहपतिना। अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#ः। गार्हपत्योऽग्निरिति। अग्निविशेष इत्यर्थः। तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः। यद्यपि `देवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति' इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः।

तत्त्वबोधिनी

1249 गार्हपत्य इति। `गृहपतिने'ति निर्देशादेव तृतीयान्तात्प्रत्ययः। `संज्ञाया'मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः।

Satishji's सूत्र-सूचिः

TBD.