TBD.
ततिति द्वितीयासमर्थाद् विध्यति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, न चेद् धनुष्करणं भवति। पादौ विध्यन्ति पद्याः शर्कराः। ऊरव्याः कण्टकाः। अधनुषा इति किम्? पादौ विध्यति धनुषा। ननु असमर्थत्वादनभिधानाच् च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितो ऽर्थः प्रतीयते? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणम् न सम्भाव्यते इति। तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति।
TBD.
–
1615 विध्यत्यधनुषा। तदिति द्वितीयान्तमनुवर्तते। अधनुषेति सप्तम्यर्थे तृतीया। धनुषोऽभावः-अधनुः, तस्मिन्सतीत्यर्थः। अर्थाऽभावे नञ्तत्पुरुषः, `अर्थाभावे अव्ययीभावे अयं विकल्प्यते' इत्युक्तत्वात्। द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्याद्धनुष करणस्याऽभावे सतीत्यर्थः। न चेत्तत्रेति। तत्र=वेधने धनुः करणं न चेदित्यर्थः। पद्या इति। पादशब्दाद्यति `पद्यत्यतदर्थे' इति पद्भावः। अधनुषेति किम् ?। धनुषा चोरं विध्यति देवदत्तः। अत्र चोराद्यन्न भवति। न चाऽसामथ्र्यादेवात्र यन्नेति वाच्यं, विध्यतीत्यस्य प्रत्ययार्थत्वेन प्रधानतया तस्य सापेक्षत्वेऽपि सामथ्र्याऽविधातात्। अन्यथा `औपगवो देवदत्त उपगुनप्तृत्वा' दित्यादौ अणादिकं न स्यात्, प्रत्ययार्थैकदेशस्य व्यधनस्य करणविशेषनित्यसापेक्षत्वाच्चेति शब्देन्दुशेखरे विस्तरः।
1244 पद्या इति। `पद्यत्यतदर्थे'इति पद्भावः। अधनुषा किम्?। चोरं विध्यति। सम्भाव्यते हि चोरब्यधने धनुषः करणता। यदा तु धनुषेति प्रयुज्यते तदा सापेक्षत्वादेव न भवति। एवं च `न चेत्तत्र धनुः करण'मित्यत्र `सम्भव्यते'इति शेषो बोध्याः।
TBD.