Table of Contents

<<4-4-83 —- 4-4-85>>

4-4-84 धनगणं लब्धा

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर् युज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1616 धनगणं लब्धा। धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः। ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह–तृन्नन्तमेतदिति। तथाच `न लोके' ति निषेधान्न षष्ठीति भावः।

तत्त्वबोधिनी

1245 तृन्नन्तमिति। एवं च `न लोके'त्यादिना कृद्योगषष्ठ\उfffदा निषेधात् `धनगण 'मिति प्रयोगो निर्बाध इति भावः।

Satishji's सूत्र-सूचिः

TBD.