Table of Contents

<<4-4-83 —- 4-4-85>>

4-4-84 धनगणं लब्धा

प्रथमावृत्तिः

TBD.

काशिका

तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर् युज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1616 धनगणं लब्धा। धनशब्दाद्गणशब्दाच्च द्वितीयान्ताल्लब्धेत्यर्थे यत्स्यादित्यर्थः। ननु लब्धृशब्दस्य तृजन्तस्य कृदन्तत्वात्तद्योगे कर्मणि षष्ठी स्यादित्यत आह–तृन्नन्तमेतदिति। तथाच `न लोके' ति निषेधान्न षष्ठीति भावः।

तत्त्वबोधिनी

1245 तृन्नन्तमिति। एवं च `न लोके'त्यादिना कृद्योगषष्ठ\उfffदा निषेधात् `धनगण 'मिति प्रयोगो निर्बाध इति भावः।

Satishji's सूत्र-सूचिः

TBD.