Table of Contents

<<4-4-80 —- 4-4-82>>

4-4-81 हलसीराट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

तद्वहति इत्येव। हलसीरशब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हलं वहति हालिकः। सैरिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1613 हलसीराट्ठक्। आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः।

तत्त्वबोधिनी

1242 हलसीरात्। ननु `तस्येद'मित्युपक्रमे `हलसीताट्ठ'गिति पठितम्। तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत्। सत्यम्। आरम्भसामथ्र्यादत्रापि तदन्तविधिः। तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात्। जायते अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह–।

Satishji's सूत्र-सूचिः

TBD.