Table of Contents

<<4-4-80 —- 4-4-82>>

4-4-81 हलसीराट् ठक्

प्रथमावृत्तिः

TBD.

काशिका

तद्वहति इत्येव। हलसीरशब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हलं वहति हालिकः। सैरिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1613 हलसीराट्ठक्। आभ्यां द्वितीयान्ताभ्यां वहतीत्यर्थे ठगित्यर्थः।

तत्त्वबोधिनी

1242 हलसीरात्। ननु `तस्येद'मित्युपक्रमे `हलसीताट्ठ'गिति पठितम्। तथा च तेनैव शैषिकेण हालिकः सैरिक इति सिद्धौ किमनेनेति चेत्। सत्यम्। आरम्भसामथ्र्यादत्रापि तदन्तविधिः। तेन द्वैहलिको द्वैसीरिक इति भवति, शैषिके ठकि तु प्राग्दीव्यतीयो लुक् स्यात्। जायते अस्यां गर्भ इति व्युत्पत्तिमाश्रित्य आह–।

Satishji's सूत्र-सूचिः

TBD.