Table of Contents

<<4-4-79 —- 4-4-81>>

4-4-80 शकटादण्

प्रथमावृत्तिः

TBD.

काशिका

तद्वहति इत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे अण् प्रत्ययो भवति। शकटम् वहति शाकटो गौः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1601 अगारान्ताट्ठन्। तत्र नियुक्त इत्येव। नित्त्वान्नादिवृद्धिः। तदाह–देवगारिक इति।

तत्त्वबोधिनी

1241 शाकटो गौरिति। ननु `तस्येद 'मित्यणा सिद्धम्। यौ हि शकटं वहति शकटस्यासौ भवति। अत्राहुः—आरम्भसामथ्र्यादत्र तदन्तविधिः। तेन द्वे शकटे वहति द्वैशकट इत्यत्र `द्विगोर्लुगनपत्ये'इति प्राग्दीव्यतीयो लुङ् न भवति, `तस्येद'मित्यणि तु स्यादेव लुगिति।

Satishji's सूत्र-सूचिः

TBD.