Table of Contents

<<4-4-78 —- 4-4-80>>

4-4-79 एकधुराल् लुक् च

प्रथमावृत्तिः

TBD.

काशिका

तद् वहति इत्येव। एकधुराशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग् भवति। वचनसमार्थ्यात् पक्षे लुग् विधीयते। एकधुराम् वहति एकधुरीणः, एकधुरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1611 एकधुराल्लुक् च। एकधुराशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे खः स्यात्। तस्य पक्षे लुगित्यर्थः। एकधुरीणः। एकधुर इति। एकधुरां वहतीत्यर्थः।

तत्त्वबोधिनी

1240 एकधुराल्लुक् च। चात्खः। एवं च प्राकरणिकस्य यतो लुक्, खस्य तु विधानसामथ्र्याच्छ्रवणमिति फलितं, तदाह—एकधुरीण इत्यादि।

Satishji's सूत्र-सूचिः

TBD.