TBD.
तद्वहति इत्येव। सर्वधुराशब्दाद् द्वितीयासमर्थात् वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। सर्वधुरां वहति सर्वधुरीणः। स्त्रीलिङ्गे न्याय्ये सर्वधुरातिति प्रातिपदिकमात्रापेक्षो निर्देशः। खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः। उत्तरधुरीणः। दक्षिणधुरीणः।
TBD.
–
1610 खः सर्वधुरात्। सर्वा धूः सर्वधुरा। `पूर्वकाल' इति तत्पुरुषः। `ऋक्पू'रिति समासान्तः। `परवल्लिङ्ग'मिति स्त्रीत्वाट्टाप्। इह तु शब्दस्वरूपापेक्षया नपुंसकनिर्देशः। द्वितीयान्तात्सर्वधुराशब्दाद्वहतीत्यर्थे खः स्यादित्यर्थः। सर्वधुरीण इति। सर्वधुरां वहतीत्यर्थः। `स तु सर्वधुरीणो यो भवेत्सर्वधुरावहः' इत्यमरः।
1239 खः सर्वधुरात्। `सर्वधुराया'इति वक्तव्ये नपुंसकनिर्देशः शब्दस्वरूपापेक्षया `बन्धुनि बहुव्रीहौ'इतिवत्। सर्वधुरामिति। `पूर्वकालैके'ति समासः। `ऋक्पूरब्धुः— 'इति समासान्ते अप्रत्यये टाप्।
TBD.