Table of Contents

<<4-4-76 —- 4-4-78>>

4-4-77 धुरो यड्ढकौ

प्रथमावृत्तिः

TBD.

काशिका

तद् वहति इत्येव। धुरित्येतस्माद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् ढकित्येतौ प्रत्ययौ भवतः। धुरं वहति धुर्यः, धौरेयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1135 हलि चेति दीर्घे प्राप्ते -.

बालमनोरमा

1608 धुरो यड्ढकौ। धुरशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्, ढक्च स्यादित्यर्थः। `यड्ढकञो'विति पाठान्तरम्। हलि चेतीति। `धुर्वी हिंसायां' `भ्राजभासे'ति क्विप्। `राल्लोपः' इति लोपः। अ\उfffदाआदिस्कन्धवाह्रप्रदेशो युगावयवो धुः। धुर्शब्दाद्यति `हलि चे'ति दीर्घे प्राप्ते सतीत्यर्थः।

तत्त्वबोधिनी

1237 धुरो। `धुरो ढक् चे'त्येव सुवचम्।

Satishji's सूत्र-सूचिः

TBD.