Table of Contents

<<4-4-75 —- 4-4-77>>

4-4-76 तद्वहति रथयुगप्रासङ्गम्

प्रथमावृत्तिः

TBD.

काशिका

रथ्यः। युग्यः। प्रासङ्ग्यः। तद्वहति रथयुगप्रासङ्गम्

4-4-76 । तदिति

द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः। रथसीताहलेभ्यो यद् विधौ इति तदनतविध्युपसङ्ख्यानात् परमरथ्यः इत्यपि भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1134 रथं वहति रथ्यः. युग्यः. प्रासङ्ग्यः..

बालमनोरमा

1607 तद्विहति रथ। रथादि वहतीत्यर्थे द्वितीयान्ताद्रथ युग प्रासङ्ग इति त्रयाद्यत्स्यादित्यर्थः। युग्य इति। रथादिवहनकाले अ\उfffदाआदिस्कन्धेषु तिर्यग्यत् काष्ठमीषत्प्रोतमासज्यते तद्युगम्। तद्विहतीत्यर्थः। दमनकाले इति। रथादिवहने सुशिक्षिताव\उfffदाऔ नियुज्य तत्स्कन्धवाह्रयुगे यद्युगान्तरमासज्य तस्मिन्नशिक्षिता अ\उfffदाआदयो वहनशिक्षार्थ नियुज्यन्ते स प्रासङ्ग इत्यर्थः। `प्रासङ्गो ना युगाद्युगे' इत्यमरः।

तत्त्वबोधिनी

1236 युग्य इति। युगं रथाङ्गं वहतीत्यर्थः। प्रासङ्ग इति। प्रासज्यते असाविति कर्मणि घञ्।

Satishji's सूत्र-सूचिः

TBD.