TBD.
तत्र इत्येव। आवसथशब्दात् सप्तमीसमर्थात् वसति इत्येतस्मिन्नर्थे ष्ठल् प्रत्ययो भवति। लकारः स्वरार्थः। षकारो ङीषर्थः। आवसथे वसति आवसथिकः। आवसथिकी। ठकः पूर्णो ऽवधिः, अतः परमन्यः प्रत्ययो विधीयते।
TBD.
–
1712 आवसथाष्ठल्। तत्र वसतीत्यर्थे आवसतात्सप्तमय्न्तात्ष्ठलित्यर्थः। आवसथं– गृहम्। षित्त्वं ङीषर्थम्। तदाह–आवसथिकीति। \र्\नाकर्षादित्यादि। श्लोकवार्तिकमिदम्–`प्राग्वहतेष्ठक्' इत्यादौ ठगिति वा ष्ठगिति छेद इति संशयनिवृत्त्यर्थम् `आकर्षात्ष्ठ'लिति सूत्रभाष्ये पठितम्। तत्र आकर्षादित्यनेन `आकर्षात्ष्ठ'लिति सूत्रं विवक्षितम्। `पर्पादिभ्यः' इत्यनेन `पर्पादिभ्यः ष्ठ न्निति सूत्रं विपक्षितम्। `भस्त्रादिभ्यः' इत्यनेन `भस्त्रादिभ्यः ष्ठ'न्निति सूत्रं विवक्षितम्। कुसीदसूत्रादित्यनेन `कुसीददशैकादशात् ष्ठन्ष्ठचौ' इति सूत्रं विवक्षितम्। आवसथादित्यनेन `आवसथात्ष्ठ'लिति सूत्रं विवक्षितम्। किसरादेरित्यनेन `किसरादिभ्यः ष्ठ'न्निति सूत्रं विवक्षितम्। `प्राग्वहतेष्ठक्' इत्यधिकारे एतैः सूत्रैर्विहिताः षट् प्रत्ययाः षित इत्यर्थः। ननु `कुसीदे'ति सूत्रे प्रत्ययद्वयविधानादेतत्सूत्रषट्कविहिता सप्त प्रत्यया लभ्यन्त इति षट् षित इति कथमित्यत आह–षडितीति। `ष'डित्यनेन सूत्राभिप्रायं षट्त्वं विवक्षितमिति भावः।
प्राग्वहतीयाः।*
1323 आवसथात्। लकारः स्वरार्थः। आवसन्त्यस्मिन्नित्यावसथः। `उपसर्गे वसेः'इत्यप्रत्ययः। \र्\नाकर्षत्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च।कुसीदसूत्रादिति। `कुसीददशैकादशा'दिति सूत्रोपात्ताभ्यां प्रकृतिभ्यामित्यर्थः। इह `नौव्द्यचष्ठ'नित्यत्रेव येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने ष्ठलादेः षित्त्वामनार्षमिति भ्रमः स्यादतः श्र्लोकवार्तिककारः षित्प्रत्ययान्सर्वानपि पर्यजीगणत्। समाप्तः।\र्\निति तत्त्वबोधिन्यां ठगधिकारः।
TBD.